(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
10.1. अध्यायः 001
Mahabharata - Sauptika Parva - Chapter Topics
सञ्जयधृतराष्ट्रयोः संलापः॥ 1 ॥ द्रौणिकृपकृतवर्मभिर्वनमध्यमेत्य न्यग्रोधस्याधस्तादुपवेशनम्॥ 2 ॥ तत्र रात्रौ घूकेन बहुकाकावधदर्शिना द्रौणिना तद्वत्स्वेनापि पाण्डववधनिर्धारणम्॥ 3 ॥ ततः कृपकृतवर्माणौ समुद्बौध्य स्वकर्तव्यकथनप्रार्थना॥ 4 ॥


Mahabharata - Sauptika Parva - Chapter Text

श्रीवेदव्यासाय नमः। 10-1-0x(5260)(63944)
नारायणं नमस्कृत्य नरं चैव नरोत्तमम्।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्॥ 10-1-1(63945)
सञ्जय उवाच। 10-1-1x(5261)
ततस्ते सहिताः सर्वे प्रयाता दक्षिणामुखाः।
उपास्तमयवेलायां शिबिराभ्याशमागताः॥ 10-1-1(63946)
विमुच्य वाहांस्त्वरिता भीताः समनुबोधनात्।
गहनं देशमासाद्य प्रच्छन्ना न्यविशन्त ते॥ 10-1-2(63947)
सेनानिवेशमभितो नातिदूरमवस्थिताः।
[निकृत्ता निशितैः शस्त्रैः समन्तात्क्षतविक्षताः।]
दीर्घमुष्णं च निःश्वस्य पाण्डवानन्वचिन्तयन्॥ 10-1-3(63948)
श्रुत्वा च निनदं घोरं पाण्डवानां जयैषिणाम्।
अनुसारभयाद्भीताः प्राङ्मुखाः प्राद्रवन्पुनः॥ 10-1-4(63949)
ते मुहूर्तात्ततो गत्वा श्रान्तवाहा पिपासिताः।
नामृष्यन्त महेष्वासाः क्रोधामर्षवशङ्गताः॥ 10-1-5(63950)
राज्ञो वधेन सन्तप्ता मुहूर्तं समवस्थिताः॥ 10-1-6(63951)
धृतराष्ट्र उवाच। 10-1-7x(5262)
अश्रद्धेयमिदं कर्म कृतं मीमेन सञ्जय।
यत्स नागायुतप्राणः पुत्रो मम निपातितः॥ 10-1-7(63952)
अवध्यः सर्वभूतानां वज्रसंहननो युवा।
पाण्डवैः समरे पुत्रो निहतो मम निपातितः॥ 10-1-8(63953)
न दिष्टमभ्यतिक्रान्तुं शक्यं गावल्गणे नरैः।
यत्समेत्य रणे पार्थैः पुत्रो मम निपातितः॥ 10-1-9(63954)
अद्रिसारमयं नूनं हृदयं मम सञ्जय।
हतं पुत्रशतं श्रुत्वा यन्न दीर्णं सहस्रधा॥ 10-1-10(63955)
कथं हि वृद्धमिथुनं हतपुत्रं भविष्यति।
न ह्यहं पाण्डुपुत्रस्य विषये वस्तुमुत्सहे॥ 10-1-11(63956)
कथं राज्ञः पिता भूत्वा स्वयं राजा च सञ्जय।
प्रेष्यभूतः प्रवर्तेयं पाण्डवेयस्य शासनात्॥ 10-1-12(63957)
प्रभुज्य पृथिवीं सर्वां स्थिता मूर्धनि सञ्जय।
कथमद्य भविष्यामि श्रोतुं शक्ष्यामि सञ्जय। 10-1-13(63958)
येन पुत्रशतं पूर्णमेकेन निहतं मम॥
कृतं सत्यं वचस्तस्य विदुरस्य महात्मनः। 10-1-14(63959)
अकुर्वता वचस्तस्य मम पुत्रेण सञ्जय॥
अधर्मेण हते तात पुत्रे दुर्योधने मम। 10-1-15(63960)
कृतवर्मा कृपो द्रौणिः किमकुर्वत सञ्जय॥ 10-1-16(63961)
सञ्जय उवाच। 10-1-17x(5263)
गत्वा तु तावका राजन्नातिदूरं मनस्विनः।
अपश्यन्त वनं घोरं नानाद्रुमलतावृतम्॥ 10-1-17(63962)
ते मुहूर्तं तु विश्रम्य लब्धतोयैर्हयोत्तमैः।
सूर्यास्तमयवेलायां कौरवेयस्य शासनात्॥ 10-1-18(63963)
नानामृगगणैर्जुष्टं नानापक्षिभिराकुलम्।
नानाद्रुमलताच्छन्नं नानाव्यालनिषेवितम्॥ 10-1-19(63964)
नानातोयसमाकीर्णैस्तटाकैरुपशोभितम्।
पद्मिनीशतसञ्छन्नं नीलोत्पलसमायुतम्॥ 10-1-20(63965)
प्रविश्य तद्वनं घोरं वीक्षमाणाः समन्ततः।
शाखासहस्रसञ्छन्नं न्यग्रोधं ददृशुस्ततः॥ 10-1-21(63966)
उपेत्य तु तदा राजन्न्यग्रोधं ते महारथाः।
ददृशुर्द्विपदां श्रेष्ठाः श्रेष्ठं तं वै वनस्पतिम्॥ 10-1-22(63967)
तेऽवतीर्य रथेभ्यश्च विप्रमुच्य च वाजिनः।
उपस्पृश्य यथान्यायं सन्ध्यामन्वासत प्रभो॥ 10-1-23(63968)
ततोऽस्तं पर्वतश्रेष्ठमनुप्राप्ते दिवाकरे।
सर्वस्य जगतो धात्री शर्वरी प्रत्यपद्यत॥ 10-1-24(63969)
ग्रहनक्षत्रताराभिः प्रकीर्णाभिरलङ्कृतम्।
नभोंऽशुकमिवाभाति प्रेक्षणीयं समन्ततः॥ 10-1-25(63970)
इच्छया ते प्रवल्गन्ति ये सत्वा रात्रिचारिणः।
दिवाचराश्च ये सत्वास्ते निद्रावशमागताः॥ 10-1-26(63971)
रात्रिञ्चराणां सत्वानां निनादोऽभूत्सुदारुणः।
क्रव्यादाश्च प्रमुदिता घोरा प्राप्ता च शर्वरी॥ 10-1-27(63972)
तस्मिन्रात्रिमुखे घोरे दुःखशोकसमन्विताः।
कृतवर्मा कृपो द्रौणिरुपोपविविशुः समम्॥ 10-1-28(63973)
उपोपविष्टाः शोचन्तो न्यग्रोधस्य समीपतः।
तमेवार्थमतिक्रान्तं कुरुपाण्डवयोः क्षयम्॥ 10-1-29(63974)
निद्रया च परीताङ्गा निषेदुर्धरणीतले।
श्रमेण सुदृढं युक्ता विक्षता विविधैः शरैः॥ 10-1-30(63975)
ततो निद्रावशं प्राप्तौ कृपभोजौ महाबालौ।
सुखोचितावदुःखार्हौ निषण्णौ धरणीतले॥ 10-1-31(63976)
तौ तु सुप्तौ महाराज तस्मिन्देशे महारथौ।
[महार्हशयनोपेतौ भूमावेव ह्यनाथवत्॥] 10-1-32(63977)
क्रोधामर्षवशं प्राप्तो द्रोणपुत्रस्तु भारत।
न वै स्म स जगामाथ निद्रां सर्प इव श्वसन्॥ 10-1-33(63978)
न लेभे स तु निद्रां वै दह्यमानोऽतिमन्युना।
वीक्षाञ्चक्रे महाबाहुस्तद्वनं घोरदर्शनम्॥ 10-1-34(63979)
वीक्षमाणो वनोद्देशं नानासत्वैर्निषेवितम्।
अपश्यत महाबाहुर्न्यग्रोधं वायसावृतम्॥ 10-1-35(63980)
तत्र काकसहस्राणि तां निशां पर्यणामयन्।
सुखं स्वपन्तः कौरव्य पृथक्पृथगुपाश्रयाः॥ 10-1-36(63981)
सुप्तेषु तेषु काकेषु विस्रब्धेषु समन्ततः।
सोऽपश्यत्सहसा यान्तमुलूकं घोरदर्शनम्॥ 10-1-37(63982)
महास्वनं महाकायं हर्यक्षं बभ्रुपिङ्गलम्।
सुतीक्ष्णघोणानखरं सुपर्णमिव वेगितम्॥ 10-1-38(63983)
सोऽथ शब्दं मृदुं कृत्वा लीयमान इवाण़्डजः।
न्यग्रोधस्य ततः साखां पातयामास भारत॥ 10-1-39(63984)
सन्निपत्य तु शाखायां न्यग्रोधस्य विहङ्गमः।
सुप्ताञ्जघान विस्रब्धान्वायसान्वायसान्तकः॥ 10-1-40(63985)
केषाञ्चिदच्छिनत्पक्षाञ्शिरांसि च चकर्त ह।
चरणांश्चैव केषाञ्चिद्बभञ्ज चरणायुधः॥ 10-1-41(63986)
क्षणेनाघ्नत्स बलवान्येऽस्य दृष्टिपथे स्थिताः॥ 10-1-42(63987)
तेषां शरीरावयवैः शरीरैश्च विशाम्पते।
न्यग्रोधमण्डलं सर्वं सञ्छन्नं पर्वतोपमम्॥ 10-1-43(63988)
तांस्तु हत्वा ततः काकान्कौशिको मुदितोऽभवत्।
प्रतिकृत्य यथाकामं शत्रूणां शत्रुसूदनः॥ 10-1-44(63989)
तद्दृष्ट्वा तादृशं कर्म कौशिकेन कृतं निशि।
तद्भावे कृतसङ्कल्पो द्रौणिरेकोऽन्वचिन्तयत्॥ 10-1-45(63990)
उपदेशः कृतोऽनेन पक्षिणा मम संयुगे।
शत्रूणां क्षपणं युक्तं प्राप्तः कालश्च मे मतः॥ 10-1-46(63991)
नाद्य शक्यं मया हन्तुं पाण्डवा जितकाशिनः।
बलवन्तः कृतोत्साहा लब्धलक्षाः प्रहारिणः॥ 10-1-47(63992)
राज्ञः सकाशे तेषां च प्रतिज्ञातो वधो मया।
पतङ्गाग्निसमां वृत्तिमास्यायात्मविनाशिनीम्॥ 10-1-48(63993)
न्यायतो युध्यमानस्य प्राणत्यागो न संशयः।
छद्मना तु भवेत्सिद्विः शत्रूणां च क्षयो महान्॥ 10-1-49(63994)
तत्र सशयितादर्थाद्योऽर्थो निःसंशयो भवेत्।
तं जना बहुमन्यन्ते येऽर्थशास्त्रविशारदाः॥ 10-1-50(63995)
यच्चाप्यत्र भवेत्कार्यं गर्हितं लोकनिन्दितम्।
कर्तव्यं तन्मनुष्येण क्षत्रधर्मेण वर्तता॥ 10-1-51(63996)
निन्दितानि च कर्माणि कुत्सितानि पदेपदे।
सोपधानि कृतान्येव पाण्डवैरकृतात्मभिः॥ 10-1-52(63997)
अस्मिन्नर्थे पुरा गीताः श्रूयन्ते धर्मवित्तमैः।
श्लोका न्यायमवेक्षद्भिस्तत्त्वार्थास्तत्त्वदर्शिभिः॥ 10-1-53(63998)
परिश्रान्ते विदीर्णे वा भुञ्जाने वाऽपि शत्रुभिः।
प्रस्थाने वा प्रवेशे वा प्रहर्तव्यं रिपोर्बलम्॥ 10-1-54(63999)
निद्रार्तमर्धरात्रे च तथा नष्टप्रणायकम्।
भिन्नयोधं बलं यच्च द्विधा युक्तं च यद्भवेत्॥ 10-1-55(64000)
इत्येवं निश्चयं चक्रे सुप्तानां निशि मारणे।
पाण्डूनां सह पाञ्चालैर्द्रोणपुत्रः प्रतापवान्॥ 10-1-56(64001)
स क्रूरां मतिमास्थाय विनिश्चित्य मुहुर्मुहुः।
सुप्तौ प्राबोधयत्तौ तु मातुलं भोजमेव च॥ 10-1-57(64002)
तौ प्रबुद्धौ महात्मानौ कृपभोजौ महाबालौ।
नोत्तरं प्रतिपद्येतां तत्र युक्तं हिया वृतौ॥ 10-1-58(64003)
स मुहूर्तमिव ध्यात्वा तावुभौ वाक्यमब्रवीत्॥ 10-1-59(64004)
हतो दुर्योधनो राजा एकवीरो मबाहलः।
यस्यार्थे वैरमस्माभिरासक्तं पाण्डवैः सह॥ 10-1-60(64005)
एकाकी बहुभिः क्षुद्रैराहवे शुद्धविक्रमः।
पातितो भीमसेनेन एकादशचमूपतिः॥ 10-1-61(64006)
वृकोदरेण क्षुद्रेण सुनृशंसमिदं कृतम्।
मूर्धाभिषिक्तस्य शिरः पादेन परिमृद्गता॥ 10-1-62(64007)
विनर्दन्ति च पाञ्चालाः क्ष्वेलन्ति च हसन्ति च।
धमन्ति शङ्खाञ्शतशो हृष्टा घ्नन्ति च दुन्दुभीन्॥ 10-1-63(64008)
वादित्रघोषस्तुमुलो विमिश्रः शङ्खनिःस्वनैः।
अनिलेनेरितो घोरो दिशः पूरयतीव ह॥ 10-1-64(64009)
अश्वानां हेषमाणानां गजानां चैव बृंहताम्।
सिंहनादश्च शूराणां श्रूयते सुमहानयम्॥ 10-1-65(64010)
दिशं प्राचीं समाश्रित्य हृष्टानां गच्छतां भृशम्।
रथनेमिस्वनाश्चैव श्रूयन्ते रोमहर्षणाः॥ 10-1-66(64011)
पाण्डवैर्धार्तराष्ट्राणां यदिदं कदनं कृतम्।
वयमेव त्रयः शिष्टा अस्मिन्महति वैशसे॥ 10-1-67(64012)
केचिन्नागशतप्राणाः केचित्सर्वास्त्रकोविदाः।
निहताः पाण्डवैर्यस्मिन्मन्ये कालस्य पर्ययम्॥ 10-1-68(64013)
एवमेतेन भाव्यं हि नूनं कार्येण तत्त्वतः।
यथा ह्यस्येदृशी निष्ठा कृते यत्नेऽपि दुष्करे॥ 10-1-69(64014)
भवतोस्तु यदि प्रज्ञा न मोहादपचीयते।
व्यसनेऽस्मिन्महत्यर्थे यन्नः श्रेयस्तदुच्यताम्॥ ॥ 10-1-70(64015)

इति श्रीमन्महाभारते सौप्तिकपर्वणि प्रथमोऽध्यायः॥ 1 ॥

Mahabharata - Sauptika Parva - Chapter Footnotes
10-1-1 ततः दुर्योधनेन सैनापत्येऽश्वत्थाम्नोऽभिषेकानन्तरं ते अश्वत्थामकृपाचार्यकृतवर्माणः॥ 10-1-2 शिबिरनिकटस्थं देशं आसाद्य वाहान्विमुच्य न्यविशन्तेति योजना॥ 10-1-4 अनुसारः पृष्ठगमनम्। प्राद्रवन्निति पुनर्वाहान्योजयित्वेति गम्यते॥ 10-1-6 राज्ञो दुर्योधनस्य॥ 10-1-20 नानापुष्पोपशोभितमिति झ.पाठः॥ 10-1-23 अन्वासत उपासितवन्तः॥ 10-1-25 अंशुकं वस्त्रम्॥ 10-1-32 शयनोपेतौ प्रागिति शेषः॥ 10-1-36 पर्यणामयन् परिणीतवन्त आसन्॥ 10-1-38 हर्यक्ष्यं हरिन्मणिनिभलोचनम्। षाणा नासा॥ 10-1-1 प्रथमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.